(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.90. अध्यायः 090
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णस्य कुन्तीसमीपगमनम् ॥ 1 ॥ कृष्णेन प्रत्येकं नामनिर्देशपूर्वकं युधिष्ठिरादिकुशलमापृच्छ्य स्वानुभूतदुःखानुस्मरेन शोचन्त्याः कुन्त्याः समाश्वासनम् ॥ 2 ॥ तथा कुन्तीसामन्त्र्य दुर्योधनगृहगमनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-90-0x(3655)(34900)
अथोपगम्य विदुरमपराह्णे जनार्दनः।
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ॥ 5-90-1(34901)
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्।
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा ॥ 5-90-2(34902)
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् ।
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्मृथा ॥ 5-90-3(34903)
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥ 5-90-4(34904)
एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः ।
परस्परस्य सुहृदः संमताः समचेतसः।
निकृत्या भ्रंशिता राज्याञ्जनार्हा निर्जनं गताः ॥ 5-90-5(34905)
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ।
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम् ॥ 5-90-6(34906)
अहार्षुश्च वनं यान्तः समूलं हृदयं मम।
अतदर्हा महात्मानः कथं केशव पाण्डवाः ॥ 5-90-7(34907)
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ।
बाला विहीनाः पित्रा ते मया सततलालिताः ॥ 5-90-8(34908)
अपश्यन्तश्च पितरौ कथमुषूर्महावने।
शङ्खदुन्दुभिनिर्घोषैर्भृदङ्गैर्वेणुनिस्वनैः ॥ 5-90-9(34909)
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ।
ये स्म वारणशब्देन हयानां हेषितेन च ॥ 5-90-10(34910)
रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे ।
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ॥ 5-90-11(34911)
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ।
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ॥ 5-90-12(34912)
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ।
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ॥ 5-90-13(34913)
प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः ।
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ॥ 5-90-14(34914)
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन ।
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥ 5-90-15(34915)
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ॥ 5-90-16(34916)
महावनेष्वबोध्यन्त श्वापदानां रुतेन च ।
ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ॥ 5-90-17(34917)
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ।
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ॥ 5-90-18(34918)
भरतस्य दिलीपस्य शिबेरौशीनरस्य च।
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ॥ 5-90-19(34919)
शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः ।
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत् ॥ 5-90-20(34920)
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ।
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ 5-90-21(34921)
यः स नागायुतप्राणो वातरंहा महाबलः ।
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥ 5-90-22(34922)
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन ।
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥ 5-90-23(34923)
पराक्रमे शक्रसमो मातरिश्वसमो बले।
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥ 5-90-24(34924)
क्रोधं बलममर्षं च यो निधाय परंतपः ।
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥ 5-90-25(34925)
तेजोराशिं महात्मानं वरिष्ठमभितौजसम् ।
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ॥ 5-90-26(34926)
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ।
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ॥ 5-90-27(34927)
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥ 5-90-28(34928)
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥ 5-90-29(34929)
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥ 5-90-30(34930)
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।
आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ 5-90-31(34931)
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते।
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥ 5-90-32(34932)
यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् ।
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ॥ 5-90-33(34933)
योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥ 5-90-34(34934)
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् ।
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे॥ 5-90-35(34935)
सहदेवो महेष्वासः शूरः समितिशोभनः ।
भ्रातृणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥ 5-90-36(34936)
सदैव सहदेवस्य भ्रातरो मधुसूदन ।
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥ 5-90-37(34937)
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम्।
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥ 5-90-38(34938)
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः।
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ॥ 5-90-39(34939)
चित्रयोधी च नकुलो महेष्वासो महाबलः ।
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥ 5-90-40(34940)
सुखोचितमदुःखार्हं सुकुमारं महारथम् ।
अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥ 5-90-41(34941)
पक्ष्मसंपातजे काले नकुलेन विनाकृता ।
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम्॥ 5-90-42(34942)
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन ।
कुलीना रूपसंपन्ना सर्वैः समुदिता गुणैः ॥ 5-90-43(34943)
पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी।
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते ॥ 5-90-44(34944)
महाभिजनसंपन्ना सर्वकामैः सुपूजिता।
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥ 5-90-45(34945)
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥ 5-90-46(34946)
चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम ।
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥ 5-90-47(34947)
न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् ।
द्रौपदी चेत्तथावृत्ता नाश्रुते सुखमव्ययम् ॥ 5-90-48(34948)
न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः ।
भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥ 5-90-49(34949)
न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ॥ 5-90-50(34950)
आनायितामनार्येण क्रोधलोभानुवर्तिना ।
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥ 5-90-51(34951)
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।
कृपश्च कसोमदत्तश्च निर्विष्णाः कुरवस्तथा ॥ 5-90-52(34952)
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् ।
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥ 5-90-53(34953)
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः।
क्षत्तुःक शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥ 5-90-54(34954)
वैशम्पायन उवाच। 5-90-55x(3656)
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्।
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयम् ॥ 5-90-55(34955)
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम ।
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥ 5-90-56(34956)
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ ।
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ॥ 5-90-57(34957)
निर्वासनं च नगरात्प्रव्रज्या च परन्तप ।
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ॥ 5-90-58(34958)
अज्ञातचर्या बालानामवरोधश्च माधव ।
न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप ॥ 5-90-59(34959)
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्।
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ॥ 5-90-60(34960)
न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ।
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ॥ 5-90-61(34961)
नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् ।
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ॥ 5-90-62(34962)
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता ।
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां ॥ 5-90-63(34963)
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने ।
साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप।
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ 5-90-64(34964)
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् । 5-90-65(34965)
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः ।
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥ 5-90-66(34966)
नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥ 5-90-67(34967)
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत।
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥ 5-90-68(34968)
न मां माधव वैधव्यं नार्थनाशो न वैरिता ।
तथा शोकाय दहति यथा पुत्रैर्विना भवः ॥ 5-90-69(34969)
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्।
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे।
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ॥ 5-90-70(34970)
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्।
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ॥ 5-90-71(34971)
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना ।
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ॥ 5-90-72(34972)
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ।
पराश्रया वासुदेव या जीवति घिगस्तु ताम् ॥ 5-90-73(34973)
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी।
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ॥ 5-90-74(34974)
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः।
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ॥ 5-90-75(34975)
लोकसंभाविताः संतः सुनृशंसं करिष्यथ ।
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ॥ 5-90-76(34976)
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ।
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा ॥ 5-90-77(34977)
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ।
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ॥ 5-90-78(34978)
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम।
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ॥ 5-90-79(34979)
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ।
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ॥ 5-90-80(34980)
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्।
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ॥ 5-90-81(34981)
दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम्।
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ॥ 5-90-82(34982)
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ।
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ॥ 5-90-83(34983)
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति।
यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः ॥ 5-90-84(34984)
न दुःखं राज्यहरणं न च द्यूते पराजयः ।
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ॥ 5-90-85(34985)
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता।
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः ॥ 5-90-86(34986)
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा।
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ 5-90-87(34987)
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥ 5-90-88(34988)
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम ।
भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥ 5-90-89(34989)
वैशम्पायन उवाच। 5-90-90x(3657)
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्।
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥ 5-90-90(34990)
वासुदेव उवाच। 5-90-91x(3658)
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥ 5-90-91(34991)
महाकुलीना भवती ह्रदाद्ध्रदमिवागता।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता॥ 5-90-92(34992)
वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः ।
मुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥ 5-90-93(34993)
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ।
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ॥ 5-90-94(34994)
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥ 5-90-95(34995)
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥ 5-90-96(34996)
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥ 5-90-97(34997)
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।
आत्मानं ते कुशलिनं निवेद्याहुरनामयम् ॥ 5-90-98(34998)
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥ 5-90-99(34999)
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥ 5-90-100(35000)
कुन्त्युवाच। 5-90-101x(3659)
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन।
यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा ॥ 5-90-101(35001)
अविलोपेन धर्मस्य अनिकृत्या परन्तप।
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ 5-90-102(35002)
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥ 5-90-103(35003)
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्।
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥ 5-90-104(35004)
` कुरूणां पाण्डवानां च लोकानां चापराजित ।
सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव।
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव ॥' 5-90-105(35005)
वैशम्पायन उवाच। 5-90-106x(3660)
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्।
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥ ॥ 5-90-106(35006)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि नवतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-90-6 प्रियं राज्यादि। सुखं भोगोत्थ आह्लादः ॥ 5-90-21 प्रियो दर्शो दर्शनं यस्य ॥ 5-90-48 तथावृत्ता पुण्यशीला ॥ 5-90-59 अवरोधः राज्यप्रदानरूपो वृत्तिनिरोधः ॥ 5-90-60 यदि सुखं पुण्यक्षयरूपं अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात्पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात्। तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ॥ 5-90-61 अस्मात् भाविनः कुरुपाण्डवसंग्रामात् ॥ 5-90-62 सर्वं वृत्तम्। एषां पाण्डवानां तथाविधं अविषमम् ॥ 5-90-63 वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । वृत्तोऽतीते दृढे ख्याते इति विश्वः। आर्यकः पितामहः । तुभ्यं तव ॥ 5-90-66 महाजन्ये महायुद्धे । मेधान् अश्वमेधान् ॥ 5-90-75 अतिक्रमिष्यति अयुद्धेनेत्यर्थः ॥ 5-90-102 अनिकृत्या अच्छलेन ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.